समासशक्तिविमर्शः
यस्मिन् समुदाये पदद्वयं
वा पदत्रयं वा परस्परं समस्यते स समुदायः समासः इति । प्राक्कडारा समासः[i]- समासस्य समासान्ताः[ii] इत्यादिसूत्रेषु समासशब्दः
भगवता सूत्रकारेण पाणिनिमहर्षिणा प्रयुक्तः । समास इति संज्ञा अन्वर्था । समसनं समासः
संक्षेपः इत्यर्थः । संपूर्वक–असु क्षेपणे धातोः भावार्थे घञि प्रत्यये सति कुगतिप्रादयः[iii]
इति सूत्रेण गतिसमासे समास इति पदं
प्रादुर्भवति । यथा भोजस्य राज्यम् भोजराज्यम् । भोज डस् राज्य सु इत्येवं स्थितयोः भिन्नशब्दयोः विभक्तिलोपादीना संक्षिप्तरुपमेव भगवता पाणिनिना
दर्शितम् । अस्माकं लोकेऽपि ससासशब्दस्य
संक्षेपकार्थत्वं प्रसिद्धमस्ति । अतः पदानां लाघवेन बहुपदप्रयोगाय इयं समासप्रक्रिया 99
सूत्रैः महर्षि पाणिनिः
अष्टाध्य्यायीग्रन्थे उपदिदेश । परञ्च
महर्षिपाणिनिना समासं
परिभाषयितुं सुस्पष्टतया किमपि सूत्रम्
अत्र नोक्त्तम् ।
समर्थः पदविधिः-[iv] अस्मिन् सूत्रे
कृतद्धितसमासैकशेषसनाद्यन्ता पञ्चवृत्तयः । लोके वृत्तिशब्दः सर्वत्र
व्यापारबोधकः एव प्रचलति । तथा च
शास्त्रेपि वृत्तिशब्दः व्यापारबोधकः एव परञ्च
शास्त्रविषये किञ्चित् मतवैविद्धयं वर्तते । तस्यैव
व्यापारस्यैकार्थीभावसामर्थ्यमिति शास्त्रे
व्यवह्यियते । एकार्थीभावरुपा
वृत्तिः कृदादिपञ्चवृत्तिषु वर्तते इति ।
समर्थः पदविधिः इति सूत्रकारेण उपदिष्टम् । तेन
वृत्तिपञ्चकस्य पदविधिरिति
व्यवहारः सिद्धमिति । तत्र पदविधिर्नाम्
विधीयते असाविति विधिः ‘वि पूर्वक धाञ्धातोः’ उपसर्गे घो किः[v] इति सूत्रेण कर्मणि किप्रत्यये विधिरिति भवति ।
तदनन्तरं पदानां विधिरिति शेषषष्ठ्यन्तेन
समासः । सम्बन्धास्तु उद्देश्यविधेयरुपः पदोदेश्यविधिरिति यावत् । तथा च पदानां सतां विधियमानो यः समाससंज्ञादिः स पदविधिरिति निर्गलितोऽर्थः ,
सङ्गताश्चासौ अर्थश्च समर्थ इति प्रादिसमासः । सङ्गतशब्दः एकीभूतार्थबोधकः।सङ्गतं तैलं सङ्गतं घृतमित्यादौ तथा दर्शनात् । तथा च
समर्थः एकीभूतार्थः इति वाच्यार्थे निष्पन्ने लक्षणया एकीभूतार्थबोधकशब्दाश्रित
इत्यर्थं संपद्यते । एवं रीत्या
पृथगर्थानामेकोपस्थिति जनकत्वमेकार्थीभावः । सूत्र प्रयोजनं तु पदानां
समासव्याप्तिः एवमेव संसृष्टचासौ अर्थश्च
समर्थ इति ।
व्यपेक्षारुपसार्थ्यमपि समर्थः पदविधिरिति सूत्रेणैव बोध्यते । व्यपेक्षायां
संप्रेक्षितार्थस्समर्थः सम्बद्यार्थः समर्थ इति व्युत्पत्तिः । समासः
षड्प्रकारको भवतीति साधितं कौण्डभट्टेन –
सुबन्तेनेति ज्ञेयः समासः षड्विधो बुधैः ।।[vi]
एतद्विवरणं
सोदाहरणं उपस्थाप्यते-
(१)
सुपां सुपा- सुबन्तस्य सुबन्तेन स समासः – राजपुरुषः कृष्णाश्रितः
नखभिन्नः इत्यादौ
(२)
सुपां तिङा- सुबन्तस्य तिङ्न्तेन सह समासः । यथा- अनुव्यचलत्,
पर्यभूषयत् । अत्र परि इति सुबन्तस्य
अभूषयत् इति तिङन्तेन सह समासः ।
उदात्तगतितमा च तिङन्तेनाव्ययं समस्यते इति
वार्तिककार्थः अव्यस्योदात्तवता
तिङन्तेन समासः ।
(३)
सुपां नाम्ना- सुबन्तस्य नाम्ना सह समासः । अत्र नामपदेन प्रातिपदिकस्य
ग्रहणं न तु सुबन्तस्य अन्यथा सह सुपा [vii]
इति सूत्रेणैव समाससिद्धौ नाम्नेति
पुनुरुक्तिस्यात् । अतः
प्रातिपदिकेनैव समासः । यथा
कुम्भकारः । अत्र कुम्भम् इति
सुबन्तस्य कार इति नाम्ना समासः । अत्र गतिकारकोपदानां कृद्भिः
सह समासवचनं प्राक् सुबुत्पत्तेः समासो भवति ।
(४)
सुपां धातुना- अत्र उत्तरपदं न सुबन्तं
नापि तिडन्तम् ।सुबन्तस्य धातुना सह समासः
। यथा कटप्रूः । कटं प्रवते इति विग्रहः कटम् इति सुबन्तस्य गत्यर्थकप्रङ्धातुना सह समासः ।
अत्र कर्तरि क्वपि इति
सूत्रेण क्विपविधानेन प्रयोगः सिद्धयति ।
(५)
तिङां तिङा- अत्र तिङन्तस्य तिङ्न्तेन सह समासः आख्यातमाख्यातेन
क्रियासातत्ये इति इति गणसूत्रम् ।
क्रियासात्सयं नाम क्रियायाः पौनः पुण्यम् । यथा पिबतखादता पचतभृज्जतेत्यादिः । पिबतखादतेति सततं यस्यां
क्रियायामधिधत्ते , सा पिबतखादतेत्यर्थः ।
(६)
तिङां सुपा- अत्र पूर्वपदं तिङन्तम् उत्तरपदं तु सुबन्तम् तिङ्न्तस्य सुबन्तेन सह समासः । तथा-
जहिस्तम्बः, जहिजोडः इत्यादि । अत्र जहीत्येतत् तिङन्तं, स्तम्बेति सुबन्तेन सह
समासः ।
एवमेव षड्विधप्रकारको ससासः ग्रन्थकारेण
निरुपितः । अनन्तरं सामर्थ्यविषये उक्तम्
। सामर्थ्यं द्विविधं भवतीति ।
(क)
व्यपेक्षालक्षणम्
(ख)
एकार्थीभवलक्षणम्
व्यपेक्षालक्षणम्-
एतत् विषये कैयटेन महाभाष्यप्रदीपे
उक्तम्- परस्पराकाक्षा रुपा
व्यपेक्षा[viii]
। तथा च
व्यपेक्षालक्षणमेकार्थीभावलक्षणञ्च सामर्थ्यं विषये परिभाषान्नाह तत्वबोधिनीकारः- स्वार्थपर्यवसायिनां
पदानामकाङ्क्षादिवशाद्य परस्परसम्बन्धः स व्यपेक्षा[ix]
। यथा राज्ञः पुरुष इत्यादिवाक्ये ।
अस्मिन पक्षे प्रत्येकं पदं परस्परं
साकाक्षं भवति ।
एकार्थीभावलक्षणम्- एतत् विषये पूर्वोक्तम् अत्रैव
एकार्थीभावस्तु- राजपुरुष इत्यादिवृत्यावेव । पृथगर्थानामेकार्थीभाव[x]
इति भाष्यप्रदीपे उक्तम् । स चैकार्थीभावः प्रक्रियादशायां पृथगर्थत्वेन
प्रथमगृहीतस्य विशिष्टैकार्थत्वरुपः । विग्रहवाक्ये तत्तपदैः पृथक्तया प्रतिपाद्य राजाद्यार्थाः पृथगर्थाः समासे पुनस्त एवार्था
एकार्थतां लभन्ते । अतएव तदेव यत्किञ्चित्पदजन्यपृथगुपस्थितविषयत्वेन
लोकदृष्टानामार्थानां विशिष्टविषयैककशक्त्यधीनोपस्थितिविषयत्वमेवैकार्थीभाव इति
फलति ।
वैयाकरणभूषणसारग्रन्थे ग्रन्थकारेण समसशक्तौप्रकरणे तत्पुरुषादिसमासानां
लक्षणनिरुपणप्रसंङ्गे-‘’ पूर्वपदार्थप्रधानोऽव्यीभावः उत्तरप्रधानतत्पुरुषः’’ इत्यादि
लक्षणस्यातिव्याप्त्यव्याप्तादिदोषेण दूषितत्वात् तेषां लक्षणामनां
प्रायिकत्वमूहितम् ।
समासवृत्तिः
जहत्स्वार्थाऽजहत्स्वार्थेति भेदेन द्विविधा । अनयोः वत्योः क्रमशः
एकार्थीभावव्यपेक्षारुपयोः पर्यवसानं लभ्यते ।
जहत्स्वार्था जहति स्वानिवृत्तिघटकपदानि समर्थ स जहत्वस्वः,
तादृशोऽर्थो यस्यां सा जहत्स्वार्था । स्वशब्दोऽत्रार्थात्मीयपरः
। अर्थस्यत्मीयञ्च पदमेव । तथा च जहत्स्वार्थत्वमेव व्यपेक्षा । राजपुरुषः इत्यादौ समासशक्तैव राजविशिष्टपुरुषभानसंभवे न
राजपुरुषपदयोरपि पुनस्तद्धोधकत्वं कल्प्यम, वृषभयावकादिपदेषु वृषादिपदानामिव ।
अजहत्स्वार्था- न जहति
पदानि स्वार्था यस्यां साऽजहत्स्वार्था ।
अस्मिन् पक्षे कल्पनाभावात्
राजपुरुषादौ नातिरिक्ता शक्तिः कल्पते ।
अवश्यक्लृन्तिप्रत्येकावयवशक्तैव बोधनिर्वाहे पुनः समुदाये शक्तिकल्पनस्य
गौरवेण निरस्तत्वमित्यर्थः । अयमेव व्यपेक्षापक्षो भाष्यकारेण समर्थसूत्रे
संसाधितः ।
जहत्स्वार्थाऽजहत्स्वार्थरुपे इमे द्वे अपि वृत्ति भेदः , संसर्गः,
उभयञ्चेति भेदेन त्रिविधे । यथोक्तम् –
जहत्स्वार्थाऽजहत्सवार्थे द्वे वृत्ति ते पुनस्त्रिधा ।
भेदः संसर्ग
उभयं वेति वाच्यव्यवस्थितेः ।।[xi]
तत्र भेदोऽन्योन्यभावः . तथा राजपुरुषः
इत्यादावराजकोयभिन्नपुरुष इति बोधः । यद्यत्र भेदो वाच्यो न स्यात्तदा राजपुरुषः
सुन्दरः इत्यस्य यो राजस्वामिकः पुरुष स देवदेवदत्तस्वामिकोऽपीति बोधः स्यात्
।
वस्तुतः
राजपुरुषः इत्यनेन प्रथमतः राजसम्बन्धवान्
इत्येव शाब्दं भानं भवति । अराजकीयभिन्न इत्यादिभेदस्तूत्तरकालमुपतिष्ठते । अतः
प्रथमोपस्थितरुपान्तरङ्गत्वात् संसर्ग एव वाच्यः , भेदस्तु
तात्पर्यग्राहकसापेक्षत्वेन बहिरङ्गत्वान्न वाच्यः, किन्त्वार्थिक एवेति भावः । संसर्गस्य भेदाविनाभावित्वात् संसर्गेण हेतुना भेदोऽनुमीयत इति भावः, तथा च अनुगम्य एव भेदो न
तु शाब्दः ।
शिवब्रह्मनारायप्रतापः
प्राचार्य
श्री सदगुरु संकल्प संस्कृत वेदविद्यापीठ आन्नदपुर 464114
संदर्भग्रन्थसूची